ਪੰਨਾ:ਮਹਾਨ ਕੋਸ਼ ਭਾਗ 1.pdf/9

ਵਿਕੀਸਰੋਤ ਤੋਂ
ਇਸ ਸਫ਼ੇ ਦੀ ਪਰੂਫ਼ਰੀਡਿੰਗ ਨਹੀਂ ਕੀਤੀ ਗਈ

________________

कोशोऽयंपरमोत्तमो विरचितः श्रीकानसिंहेन वै । नाभाराज्य निवासिना गुरुगिरातत्त्वज्ञ सद्बुद्धिना । यासोऽस्यप्रतीयतेविरचने ग्रन्थप्रणेतुर्महान् । नयद्यावधिचेदृशोगुरुगिरां कोशोऽपरोऽदृश्यत ॥१॥ तारासिंहमुखैरथापिरचिताःप्राज्ञैस्तुकोशाःपुरा। पर्याप्ता न गुरोगिरार्थकरणे कोषोयथाऽयमुवि । विद्वच्चित्तमुदंविधास्यतिपरं यस्मादयं दर्शनात् । तस्मात्सर्वमनोहरोविजयतां कोशेषुचूड़ामाणिः ॥ २॥ अनेकार्थःशब्दोभवतियदिकोऽप्यत्र विहितः । विभिन्नार्थायेयेविविधगतयस्तस्यनिखिलाः। । सदृष्टान्तास्तेतेप्रचुरमतिना चात्रलिखिताः । क्रमादङ्कान्दत्त्वा सुलभविधिरेषोऽत्रगदितः ॥ ३॥ पौराणं वैदिकं वापिस्मार्तशास्त्रीयमेववा । भवेद्यन्नामतस्यास्तिनिर्णयोऽत्रविशेषतः ॥४॥ उग्रसेनोर्वसी छाया मधुरामादयोऽत्रच । द्रष्टव्याः पण्डितैः शब्दाव्याख्याता अवते यथा ॥५॥ ऐतिहासिकशब्दानां कथासक्षेपतःकृता । मंगलार्जुननन्दाद्याः शब्दास्तन्निदर्शनम् ॥ ६॥ कुत्रकुत्रगुरुद्वारंकस्यकस्य गुरोस्तथा । विस्पष्टवर्णितंसर्वमूनादिल्लीनिदर्शनम् ॥ ७ ॥ निर्धारिताविशेषेणशब्दा भौगोलिकास्तथा । द्रष्टव्याश्चोच्चकाबाद्याः शब्दाश्चकाबुलादिकाः ॥ ८ ॥ संस्कृते लौटनेचापि वानस्पत्याःप्रदर्शिताः । शब्दानिदर्शनं तत्रोदुम्बराऽर्जुनवाचकाः ॥ ६ ॥ पदार्थविद्ययायेपिसंबद्धास्तोपिदार्शताः । भूचालप्रमुखाः शब्दाद्रष्टव्याः सोपपत्तिकाः ॥ १० ॥ कालक्रमणयेऽज्ञातमूलास्तेषांतुमूलकम् । अन्वेषितंयथाप्रानमुखं रैभाणुरेवच ॥ ११ ॥ ऐसलामीयशब्दायतेषां व्याख्यापिपूर्णतः । कृताजगातमुख्यास्तेद्रष्टव्याः खुतबादयः ॥ १२ ॥ मतान्तरीयचिह्नानां धर्मवाण्यादिनिणयः । कृतः पूर्णतयामात्रा जपमाला निदर्शनम् ॥ १३ ॥ सङ्गीतविषये शब्दा निर्णीताः शास्त्रपूर्वकम् । आशा भैरवरागाद्याः शब्दास्तत्रनिदर्शनम् ॥ १४ ॥ प्रहेलिकामुखाःशब्दाःसार्थका लिखितास्तथा । तत्ररिपुसमुद्रादि पितकानारिदृश्यताम् ॥ १५ ॥ रोगाणां रोगनाशार्थयोगानांयेतुवाचकाः । शब्दा विवेचितास्तत्र जवायनमुखायथा ॥ १६ ॥ छन्दोऽलङ्कारमुख्यानां साहित्याङ्गतयापिच । निर्णयोविहितस्तत्रोगाहासारादयोयथा ॥ १७ ॥ वैपरीत्यंकृतंयत्रेतिहासलेखकैस्तथा । पौर्वैस्तच्छोधनंचात्र प्रमाणैःप्रबलैःकृतम् ॥ १८ ॥ वीरोबीबीमुखाःशब्दाजयसिंहादयस्तथा । द्रष्टव्याश्चात्रयच्छद्धौ प्रयासोविपुलतः ॥ १४॥ यद्वाकिं बहुनोक्तेन कोशोऽयंरुचिरःकृतः । यदत्र नपरत्रास्ति पारत्रंनिखिलंत्विह ।। २० ॥

पण्डित कृष्णदास शास्त्री, वैद्यशास्त्री उदासीनः

(vii)